वंशीव्यथा
सितम्बर 21, 2011 balramshukla द्वारा
مثنوی معنوی

(वंशीव्यथा)
(रूमीकविकर्तृकस्य विश्वप्रसिद्धमसनवीकाव्यस्य समवृत्तकोऽनुवादः)
श्रूयतां वंशीगलाद्वंशीकथा
कथ्यमाना विप्रयोगानां व्यथा ।
वंशिकारण्याद्यतो मां लूनवान्
सर्वलोकः कण्ठतो मे दूनवान्।
तद्वियोगैश्छिन्नभिन्नं मन्मनः
स्याद् ,यथोद्वेगं ब्रवीत्वेतज्जनः।
येन केनापि स्वमूलाद्भ्रश्यते
तेनभूयो योगमार्गोऽन्विष्यते।
सर्वलोकाग्रे मया हाहाकृतम्
दुःखितैरानन्दितैःसर्वैश्श्रुतम्।
स्वप्रमाणैर्मित्रतां याताः समे
मानसं मर्मालभन्तेमे न मे ।
मद्रहस्यं मद्विलापे संस्फुटम्
किन्त्वशक्तं कर्णयोरक्ष्णोर्युगम्।
देहतो देही न दूरस्थः,परम्
नास्ति मर्यादा स यायाद्दर्शनम्।
वाचि वेणोर्नास्ति वातोऽग्निर्हितम्
यस्य नैषोऽग्निर्मुधा तज्जीवितम्॥
Like this:
One blogger likes this post.
Posted in उपदेशामृतम्, कवयो वयमप्यमी.., साहित्यसौहित्यम् | Tagged "काव्यम् ममात्र निहितम्......", अनूदितम्, पारसीकानुवादः, श्लोकः, समवृत्तकोऽनुवादः | 1 टिप्पणी
Leave a Reply
अत्यन्तं प्रसिद्धमिदं विश्वस्मिन्नपि विश्वे। छन्दस्यस्मिन् र,त,म,ल,ग भवन्ति।