कृष्णचन्द्रमुखचन्दिरे सदा ………
सितम्बर 23, 2011 balramshukla द्वारा

सर्गपालनविसर्गकारणं ब्रह्म चेतसि विराजतां यथा।
आशिषां प्रवचनानि तन्मिथोऽत्रैहि मित्र वितराव तावता॥
एहि दुःखसमुदायदायता याति याऽतिप्रसभं बतात्मनि ।
तत्समागमनिरोधकारणं ज्ञातुमेव समयं नयामहे॥
नश्यमानजगतां जवेऽप्यरे कञ्जपत्रगतबिन्दुचञ्चले।
स्थीयते नु कथमेव निष्ठया नो पुनः स्थिरतरे परात्मनि॥
कोट्यहस्करविभासमानता यस्य नैव स कथं विलोक्यते।
सर्वतः समुदिता तमोमयी दृश्यते कथमुलूकलोचनैः॥
सद्गताः कथमसद्युजो वयं चिद्युजः कथमचिद्युजो यथा।
दुःखसागरनिमग्नमानसा स्मः कथं नु सति सत्सुखात्मनि॥
एहि तच्चरणधूलिसञ्जुषां स्वप्रभासममनस्तमोमुषाम्।
तत्पवित्रपदपद्ममीयुषामाश्रयेऽस्तु गमनं महात्मनाम्॥
तद्गुणानुकथनप्रभावतो भास्करस्य जननं प्रभावतः।
मायिकी मृतिमियादतस्तमी वैपरीत्यप्रतिभासदुर्भगा॥
दृश्यते सुखलवो मनाग्यतस्तत्र तत्र विषयेषु धावसि।
उत्सभूत इव न प्रवर्तसे माधवाङ्घ्रिकमलद्वये कथम्॥
नारदादिबुधवृन्दवन्दितं पद्मजाकरसरोजलालितम्।
विष्णुपादकमलद्वयं सुहृद् गम्यमस्तु ननु सम्यगेव नः॥
भीतिपूरितदिगन्तरेऽप्यसौ सान्त्वयत्सुनिगमान्तवाङ्मया।
यच्छ्रुता परममोददायिनी सा , कथं तदधुना विरम्यते॥
उज्जवलश्रुतिसुधाभिवर्षिणि भक्तखेचरचयाभिशोभिनि।
कृष्णचन्द्रमुखचन्दिरे सदा चित्तमेतदिह मे चकोरतात्॥
कृष्णचन्द्र तव पादपङ्कजे स्याद्रतिर्यदि सुनिश्चला सदा।
सत्यमेव प्रतिजान आत्मना नैव याति विषयेषु मे दृशा॥
कृष्णचन्द्र भवपङ्कपातितं बालमप्रभवतां धुरि स्थितम्।
लक्षयन्नपि करोषि नो पितः सद्य ए व कथमङ्कगामिनम्॥
(२००५ तमवर्षस्य हंसराजमहाविद्यालयपत्रिकायां प्रकाशितचरी कविता)
Like this:
One blogger likes this post.
Posted in कवयो वयमप्यमी.., प्रार्थना, श्लोको मौक्तिकतुल्यः..., साहित्यसौहित्यम् | Tagged "काव्यम् ममात्र निहितम्......", कृष्णचन्द्रः, यमक, रथोद्धता, श्लेषः | 1 टिप्पणी
Leave a Reply
तदा तत्रैव अध्यापनं क्रियते स्म