मद्गुरुः श्रीजगद्गुरुः…….
सितम्बर 24, 2011 balramshukla द्वारा

विभाति जगतां गुरोः पदनखाम्बुजाभाव्रजं
समस्तजननार्जिताखिलमलान्धकारान्तकृत्।
अधूमकमवर्तिकं सततदीप्तिमालाकुलम्
न चैव चलिताचलैरपि मरुद्भिरीषद्गमम्॥१॥
अनन्यशरणागतिर्भवति यद्गुरोर्दक्षिणा
रहस्यमखिलं क्षणादुचितभाजनं बोधयन्।
नवीनजलदप्रभो नवलपुष्पमालागलो
गुरुर्मम वरासने लसति शेमुषीमुद्रया ॥२॥
चतुर्मुखमुखाम्बुजे ननु निवेशिता भारती
श्रुतिप्रततिरातता जगति यस्य प्राणानिलैः।
मदीयकवितापि तं मुदिरसुन्दरं सेन्दिरम्
विहाय विहरेत् परैःकुटिलबन्धकीवत्कथम्॥३॥
अहंकृतिरपाकृता प्रकटिता समत्वप्रभा
पुनर्भवविनाशिनी प्रवरशेमुषी देशिता।
धनञ्जयमिषेण यत् सकलसंसृतिः शिक्षिता
निरन्यविषयं श्रयेत्तमतिरिच्य कं गौरवम्॥४॥
त्वदीयवदनेन्दुतः सुखितलोकचित्ताम्बुधेर्
निरर्गलगलत्सुधा सुरसरित्समा पावनी।
जनुर्मरणहारिणी व्रजतु कापि गीताकथा
गुरो गरिमपूरिता मम कृते गुरुग्रन्थताम्॥५॥
भवन्तु यदि शाब्दिकाः पदपरायणाः पारगा
ग्रहग्रहणपण्डिता सकलशास्त्रमीमांसकाः।
भयङ्करभवान्तकं विधिमुपादिशन्नच्युत
तथापि गुरुमण्डले धुरि भवन् भवान्राजते॥६॥
ममत्वपरताश्रिताः प्रबलरागरोगावृता
विकत्थनपराः परं परगुणेषु वाचंयमाः।
भजन्तु कथमच्युत श्रितसमस्तशास्त्रान्त हे
तथाकथितशिक्षकास्तव कलामिमे षोडशीम्॥७॥
अदभ्रदयया द्रुतो सकलदर्शनेषु श्रुतोऽ
मलेषु प्रतिबिम्बवत्सकलशास्त्रसङ्क्रामकः।
गतस्मयमयामयस्त्वमिव चेद्गुरुर्दृश्यते
व्रजानि शरणार्थितां कलय तस्य सर्वात्मना ॥८॥
भयङ्करभवार्णवेऽसुखसुखोर्मिमालाकुले
गतः खलजलभ्रमं प्रबलनक्रचक्रार्दितः।
असत्यगुरुवाग्विषैर्विगतचेतनश्चेदलं
मुकुन्दपदपङ्कजं दृढतरिस्तरीतुं सुखम्॥९॥
Like this:
One blogger likes this post.
Posted in कवयो वयमप्यमी.., प्रार्थना, श्लोको मौक्तिकतुल्यः..., साहित्यसौहित्यम् | Tagged "काव्यम् ममात्र निहितम्......", कृष्णचन्द्रः, पृथ्वी, श्लोकः | Leave a Comment
Leave a Reply