Posted in कवयो वयमप्यमी.., प्रार्थना, श्लोको मौक्तिकतुल्यः..., साहित्यसौहित्यम् | Tagged "काव्यम् ममात्र निहितम्......", कृष्णचन्द्रः, पृथ्वी, श्लोकः | Leave a Comment »
सर्गपालनविसर्गकारणं ब्रह्म चेतसि विराजतां यथा।
आशिषां प्रवचनानि तन्मिथोऽत्रैहि मित्र वितराव तावता॥
एहि दुःखसमुदायदायता याति याऽतिप्रसभं बतात्मनि ।
तत्समागमनिरोधकारणं ज्ञातुमेव समयं नयामहे॥
नश्यमानजगतां जवेऽप्यरे कञ्जपत्रगतबिन्दुचञ्चले।
स्थीयते नु कथमेव निष्ठया नो पुनः स्थिरतरे परात्मनि॥
कोट्यहस्करविभासमानता यस्य नैव स कथं विलोक्यते।
सर्वतः समुदिता तमोमयी दृश्यते कथमुलूकलोचनैः॥
सद्गताः कथमसद्युजो वयं चिद्युजः कथमचिद्युजो यथा।
दुःखसागरनिमग्नमानसा स्मः कथं नु सति सत्सुखात्मनि॥
एहि तच्चरणधूलिसञ्जुषां स्वप्रभासममनस्तमोमुषाम्।
तत्पवित्रपदपद्ममीयुषामाश्रयेऽस्तु गमनं महात्मनाम्॥
तद्गुणानुकथनप्रभावतो भास्करस्य जननं प्रभावतः।
मायिकी मृतिमियादतस्तमी वैपरीत्यप्रतिभासदुर्भगा॥
दृश्यते सुखलवो मनाग्यतस्तत्र तत्र विषयेषु धावसि।
उत्सभूत इव न प्रवर्तसे माधवाङ्घ्रिकमलद्वये कथम्॥
नारदादिबुधवृन्दवन्दितं पद्मजाकरसरोजलालितम्।
विष्णुपादकमलद्वयं सुहृद् गम्यमस्तु ननु सम्यगेव नः॥
भीतिपूरितदिगन्तरेऽप्यसौ सान्त्वयत्सुनिगमान्तवाङ्मया।
यच्छ्रुता परममोददायिनी सा , कथं तदधुना विरम्यते॥
उज्जवलश्रुतिसुधाभिवर्षिणि भक्तखेचरचयाभिशोभिनि।
कृष्णचन्द्रमुखचन्दिरे सदा चित्तमेतदिह मे चकोरतात्॥
कृष्णचन्द्र तव पादपङ्कजे स्याद्रतिर्यदि सुनिश्चला सदा।
सत्यमेव प्रतिजान आत्मना नैव याति विषयेषु मे दृशा॥
कृष्णचन्द्र भवपङ्कपातितं बालमप्रभवतां धुरि स्थितम्।
लक्षयन्नपि करोषि नो पितः सद्य ए व कथमङ्कगामिनम्॥
(२००५ तमवर्षस्य हंसराजमहाविद्यालयपत्रिकायां प्रकाशितचरी कविता)
Posted in कवयो वयमप्यमी.., प्रार्थना, श्लोको मौक्तिकतुल्यः..., साहित्यसौहित्यम् | Tagged "काव्यम् ममात्र निहितम्......", कृष्णचन्द्रः, यमक, रथोद्धता, श्लेषः | 1 Comment »
यवनीमुखपद्मेभ्योऽधुना मधु निराकृतम्।
तथाप्येतान्यसह्यानि रघोरार्यस्य वंशजैः॥
(आज यवनियों के मुखपद्मों से मधु (मद्य) निराकृत हो गया है, तथापि ये आज भी आर्य रघु के वंशजों के लिये असह्य हैं॥॥
दृश्यतां रघुवंशम्–––
यवनीमुखपद्मानां सेहे मधुमदं न सः| बालातपमिवाब्जानामकालजलदोदयः ॥ ४-६१)
Posted in कवयो वयमप्यमी.., श्लोको मौक्तिकतुल्यः..., साहित्यसौहित्यम् | Tagged "काव्यम् ममात्र निहितम्......", पूर्तिः, शृङ्गारः, श्लोकः | Leave a Comment »
विरहस्य रहस्यम्…..
पाणिने परमशाब्दिक शब्दान्नूतनान् करुणया कुरु मह्यम्।
वक्तुमत्र विरहस्य रहस्यं यातयाममभिधानवितानम् ॥
न्यस्यतां सपदि तावकशास्त्रे हे पतञ्जलिमुने पदमेकम्।
क्षम्यतां, न मम चित्तविकारो योगजेन विधिना विनिरोध्यः॥
भाष्यतां, मुनिरसौ कणभक्षो भाषतामपरतन्त्रतमिस्रम् ।
खण्ड्यतामुत यदक्षसमूहैर्दृश्यतेऽन्धतमसां परिवारः ॥
सोपमानरहिताखिलकाले दृश्यतेऽभिनयनं मम मानिन्।
खण्डितं सुगतयानविदा तद्दुर्गतं तव तृतीयप्रमाणम्॥
प्रेमदोषजनिता विचिकित्स्या सा रुजाऽपि भिषगीश्वर नूनम् ।
क्वथ्यमानतनुषो नु यया मे जातमस्ति हृदयं पुटपाकः॥
Posted in कवयो वयमप्यमी.., श्लोको मौक्तिकतुल्यः... | Tagged "काव्यम् ममात्र निहितम्......", श्लोकः, स्वागताच्छन्दः | 5 Comments »
مثنوی معنوی
(वंशीव्यथा)
(रूमीकविकर्तृकस्य विश्वप्रसिद्धमसनवीकाव्यस्य समवृत्तकोऽनुवादः)
श्रूयतां वंशीगलाद्वंशीकथा
कथ्यमाना विप्रयोगानां व्यथा ।
वंशिकारण्याद्यतो मां लूनवान्
सर्वलोकः कण्ठतो मे दूनवान्।
तद्वियोगैश्छिन्नभिन्नं मन्मनः
स्याद् ,यथोद्वेगं ब्रवीत्वेतज्जनः।
येन केनापि स्वमूलाद्भ्रश्यते
तेनभूयो योगमार्गोऽन्विष्यते।
सर्वलोकाग्रे मया हाहाकृतम्
दुःखितैरानन्दितैःसर्वैश्श्रुतम्।
स्वप्रमाणैर्मित्रतां याताः समे
मानसं मर्मालभन्तेमे न मे ।
मद्रहस्यं मद्विलापे संस्फुटम्
किन्त्वशक्तं कर्णयोरक्ष्णोर्युगम्।
देहतो देही न दूरस्थः,परम्
नास्ति मर्यादा स यायाद्दर्शनम्।
वाचि वेणोर्नास्ति वातोऽग्निर्हितम्
यस्य नैषोऽग्निर्मुधा तज्जीवितम्॥
Posted in उपदेशामृतम्, कवयो वयमप्यमी.., साहित्यसौहित्यम् | Tagged "काव्यम् ममात्र निहितम्......", अनूदितम्, पारसीकानुवादः, श्लोकः, समवृत्तकोऽनुवादः | 1 Comment »
Posted in उपदेशामृतम्, कवयो वयमप्यमी.., श्लोको मौक्तिकतुल्यः... | Tagged "काव्यम् ममात्र निहितम्......", पूर्तिः, श्लोकः | Leave a Comment »
حافظ شیرازی (ترجمه به زبانِ سانسکریت)
آن که رخسار تورا رنگ گل و نسرین داد…..)
( غزلhttp://www.4shared.com/audio/6rlnWYiL/_112-__________.html-
येन कपोलतलं युगलं विधिना तव पाटलितं विहितम्।
मामपि सैव विधिर्नु विधास्यति धैर्ययुतं सहनैः सहितम् ॥
येन तवाशुगपूगयुतं नयनद्वितयं हृदयं गमितम् ।
कारुवरः स करिष्यति मामपि सच्चरितायसकञ्चुकितम्॥
दीपितमस्ति तवाधरदावयुगं मनसामतिभीतिकरम्।
येन, स एव पुरा ननु मामभि प्रेरयते प्रशमाम्बुधरम्॥
येन कृता तव पक्षगता जगतोऽखिलसुन्दरतेश्वरता।
अत्र जने हृतचित्तधनेऽस्तु तदीयदृशोः समतापरता॥
येन कृतं तव केशकुलं तुलितातुलकृष्णभुजङ्गगणम्।
मामकमत्र भये भविता गरुडध्वज एकमलं शरणम् ॥
प्राप्तवती च यतो वचसां वचसामविगोचरनिष्ठुरता ।
तेन हि मे हृदये हृदयेश्वरि पूर्यत एव च मर्षणता ॥
चारितवानतिचारपथे विपथे ललितं तव सञ्चरणम् ।
तस्य नयस्य महानिलयो न लयं गतवान् न तथाऽवरणम्॥
Posted in Uncategorized | Tagged "काव्यम् ममात्र निहितम्......", अनूदितम्, पारसीकानुवादः, हाफिज–शीराजी | 2 Comments »
भुजङ्गीच्छन्दः (अस्मिन्नेव सम्पूर्णशाहनामा सन्दृब्धा
(به نام خداوند جان و خرد……)
नुमो बुद्धिजीवात्मनोरीश्वरं विचारप्रचारस्य दूरातिगम् ।
प्रतिष्ठेश्वरं सद्यशस्स्वामिनं सदैवोपजीव्यं सुमार्गैर्नियम्॥
नभोमण्डलावर्त्तिनं ,द्योतिनं सितेन्द्वर्कमन्दप्रभाणामलम्।
न नामप्रतीकभ्रमैर्मीयते जगच्चित्रकर्त्ता न चित्रीयते ॥
न चेद्दर्शको दर्शनैरदृश्यते कथं नेत्रिभिर्दुःखितैर्भूयते ।
इह स्वान्तमत्यन्तमन्तं गतं कुतो दर्शनं याति भोः दर्शनम्॥
न धत्ते गिरा तां परामीशतां यतस्सोऽधिकारेऽस्तु बुद्ध्यात्मनाम्।
मनश्चिन्तयत्यक्षिभिर्दर्शितं वचो वैखरं मध्यमावर्त्तितम् ॥
न हीशोऽस्ति कश्चिद्यदीशस्तवे कटिर्बद्ध्यतां दास्यभावे भवे।
प्रकाशोऽस्ति यो बुद्धिचित्तात्मनां स तैरेव देवः कथं ज्ञायताम्॥
मनोवाग्विचारा अहो ईदृशास्ततस्तोतुमेतं जनाः कीदृशाः ।
अतश्श्रद्धया तिष्ठ सर्वात्मना न शास्त्रैर्विहीनार्थकैर्दुर्मनाः ॥
गवेषस्व वन्द्यस्व सर्वान्तरं निदेशे तदीये निधत्स्वान्तरम्॥
बलं तस्य बुद्धिर्यदीया भवेत्तया जर्जरो यौवनं सञ्जयेत्।
परं सापि देवं न लब्धुं भवेदतश्चातिरिक्तं न वक्तुं भवेत् ॥
Posted in कवयो वयमप्यमी.., साहित्यसौहित्यम्, Uncategorized | Tagged "काव्यम् ममात्र निहितम्......", अनूदितम्, पारसीकानुवादः, फिर्दौसी, भुजङ्गी छन्दः, श्लेषः | Leave a Comment »
परमानन्दम् वन्दे समस्त-विद्या-विलासित-मनस्कम् ।
स्तुति-कन्या-वृत-कान्तम् शास्त्रान्ताभ्यासतस्तान्तम् ॥
यद्धृदयमलयनिलयं कविता-श्रीखण्ड-मण्डलमुदारम्।
पदमसुरासुर-पदयोः लभते वाग्देवता-पदयोः॥
प्रालेयालयनिटिलान्निखिलानन्दैकहेतुरिव गंगा ।
प्रसरति परमप्रसन्ना यत्पदरचना प्रसादयितुम् !!
“स हि खलु भवति प्रदीपः प्रकाशशून्यान् प्रकाशयत्यन्यान्”।
विरचयता मम कविता प्रदीपता स्वस्य साधिता भवता॥
परमपुरुषस्य योषा माता येषां गृहे जाता।
तुलनापि मैथिलेभ्यः भुवनत्रयमातुलेभ्यः का॥
दायाद मैथिलानां विद्यापतिलोकलालित लभन्ताम् ।
रिक्थान्यतिरिक्तान्यपि विदुषां प्राचामथ भवन्तम् ॥
Posted in Uncategorized | Tagged "काव्यम् ममात्र निहितम्......", आर्या..., विद्वद्वन्दनम्॥, श्लोकः | Leave a Comment »

خداوندگار مولانا
(کجا اید ای شهیدان خدای……)
क्व याता हे प्रयाताः सत्यमाप्तुम्
तदर्थं सज्जपादाः कण्टकारण्ये प्रयातुम् ॥
क्व याता हेऽतितूर्णस्वात्मवन्तः
चिदाकाशे पतत्रिभ्यः पतद्भ्योऽप्युत्पतन्तः॥
स्वहुम्मात्रेण वेनान्निर्दलन्तः
पृथुप्रीतां धरित्रीं , क्व प्रयाता भावयन्तः॥
क्व संयातास्तपोविज्ञानवित्ताः
विपत्तावश्मसारीभूतपुष्पाकारचित्ताः॥
स्फुरत्तारुण्यतन्त्रास्स्युस्तरुण्यः
यदालोकेऽतिमुग्धे प्रस्नुवद्दुग्धा जनन्यः॥
क्व याताः कामनाब्धिं शोषयन्तः
म्रियन्ते जातका वो गोष्पदेहायां ब्रुडन्तः॥
Posted in Uncategorized | Tagged "काव्यम् ममात्र निहितम्......" | 1 Comment »






